शुक्रवार, 9 जून 2023

गणेशपञ्चरत्नम् - मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् ।

 

गणेशपञ्चरत्नम्

 

मुदा करात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंसकं विलासिलोकरञ्जकम् ।

अनायकैकनायकं विनाशितेभदैत्यकं

नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥

नतेतरातिभीकरं नवोदितार्कभास्वरं

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं

दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

नमस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।

प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं

कपोलदानवारणं भजे पुराणवारणम् ॥ ४

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज-

मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं

प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् ।

अरोगतामदोषतां सुसाहित सुपुत्रतां

समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥

 

॥ श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें